Loading...
Book ReviewImpact Factor

कारावासस्य कठोरलौहदण्डस्य मध्ये एका तिनका आशा

उत्तरप्रदेशस्य सुदंरा, छत्तीसगढस्य कमलरेखापांडे, गुर्जरप्रदेशस्य रमीलाबेन: राजस्थानस्य जैतून:, देहल्या: आरती- एतासाम् युवतीनाम् मध्ये त्रिविधा समानता अस्ति। प्रथमा एतासाम् आवासस्य द्वितीया एतासाम् कर्मठता तृतीया एतासाम् कृते प्रदत: सम्मान:। ता: पुरा कदापि न मिलितवन्ति। न कोऽपि परिचय:। ता: सर्वा: कारावासे बन्धा: सन्ति। आजीवनस्य कारावासस्य बन्धका: सन्ति। कठोरलौहदण्डमध्ये एतासां एक: राग: अस्ति- जीवनं मूल्यविहिनं नास्ति। सर्वस्मै एतम् उपयोगित्वं सिद्धं करणीयम्। एता: सर्वा: स्त्रिय: विगतेभ्यः तृतीयेभ्यः वर्षेभ्यः देशस्य कारावासस्य स्त्रीणाम्  कृते समर्पित: स्वलक्षणे अद्वितीयस्य प्रकारस्य सम्मानस्य ‘तिनका-तिनका वंदिनी’ इति पुरुस्कारस्य विजेता: सन्ति।

इयम् सुंदरा अस्ति। षष्टि: वर्षीया सा प्रायश:। लखनऊप्रदेशस्य ‘नारी-बंदी-निकेतन’ इति तस्या: आवास:। किंतु पंचविंशति: वर्षात् सा कारावासे अस्ति। स्वकीया ज्येष्ठा भगिन्या सह। आरंभिका: वर्षा: अश्रुपूर्णा: प्रतीक्षारता: आसन्। पुन: एके दिवसे तस्य समयस्य कारावासस्य अध्यक्षा दर्षितामिश्रा तां कारावासस्य कक्षायाम् वसन् एव जीवनं नवदिशायाम् प्रदातुं परामर्शं दतवती, तत् एव परामर्शं तु चमत्कारः सिद्धं अभवत्। सुंदरा कारावासस्य पार्श्वे स्थितस्य भूखण्डस्य सिंचनम् खननम् च प्रारभं अकरोत्। अष्टादशमासस्य परिश्रमस्यानन्तरम् तया हरितशाकक्षेत्ररुपेण रुपांतरणम् कृतम्। अधुना सम्पूर्ण: कारावास: तस्या: एव उत्पादितस्य शाकस्य उपरि खाद्यनिर्भर: अस्ति। इदं तु रोचकतरं अस्ति यत् अद्य अस्य शाकस्योपरि एव पुरुषकारागारस्य महनसोऽपि निर्भर: जात:।

कश्चित्कालपूर्वं अहम् लखनऊप्रदेशं गतवती। अहम् सुंदरां द्रष्टुकाम: आसम्। इदं संभव: जात:। यदा अहम् तं अपश्यम् तदा सा स्ववेदना वर्णनक्रमे भूयोभय: माम् इमानि शाकानि अदर्शयत् यानि तया वर्धयन् आसन्। यद्यपि मानवाधिकारायोगेन न लब्ध: समय: अत्र आगच्छतुं नाऽपि केनापि सुंदरायाः मनोबलं वर्धनं कृतम् तथापि सा स्वकार्ये संलग्ना अस्ति। इदं तु अविश्वस्नीयं यत् एका महिला स्वअन्त:करणात् युद्धं कृत्वा, स्वसर्वस्वं पराजित्वा अपि पुन: सामर्थ्यं प्राप्य सर्वेभ्य: अन्नदाता भवितुम् अर्हति। सुंदरा सर्वेषु स्निह्यति कारागारे उपस्थितेषु च तस्याम् महिलायाम्  या कस्यामपि अवस्थामत्रैवास्ति।

इयमस्ति छत्तिसगढ़स्य विलासपुरकारागारे आबद्धा कमलरेखापण्डितः।  २०१७ तमे वर्षे तस्मै प्रथमं तृणम् तृणम् परिवद्दा पुरुस्कारं दत्तवान्। विगतद्वादशवर्षेषु कारागरे बद्धा कमलः स्वविधिज्ञानद्वारा कारागारस्य १४ महिलानां स्वातंत्रे महती सहायता कृतवती। स्वान्यभगिनीभि: सह कारागरे वद्धा कमलरेखा विधिज्ञानं प्राप्तवती च अन्यमहिलाभ्य: स्वातन्त्रार्थं संकल्पं कृतवती।

READ  तिनका - कैदियों के प्रति बदलता सामाजिक दृष्टिकोण

36 वर्षीया  गुर्जरप्रदेशस्य कारावासे आजीवनपरिबद्धदण्डे परिबद्धा रमीलाबेनः अस्ति परंच तया स्वदण्डं सेवायाम् परिवर्तिता। सा कारावासे बद्धान् सेवते। सम्प्रति सा कारागारस्य परिचारिका रुपेण प्रसिद्धा अस्ति च कारागारं तया कार्येण अत्यंतं प्रभावितमस्ति।

६५ वर्षीया जैतूनः यदा कारागारे आगतवति तदा सा अशिक्षिता आसीत्। सा कारावासं स्वविद्यालयरुपेण च अक्षरान् स्वपरिवाररुपेण स्वीकृतवती। प्रारम्भिकशिक्षा सा पत्राचारेण कृत्वा अधुना अन्यान् पाठयन् कार्ये संलग्नास्ति।

तिहाडकारागारे बद्धा आरती नामिका कश्चित अस्ति। २०१३ वर्षे मम ‘तृणम् तृणम् तिहाड़’ इति पुस्तकस्य लेखनम् आरम्भकृतवती तदा कवित्रिय: आवश्यकता आसीत् तस्मिन् क्रमे आरत्या सह परिचय: जात:। आरती प्राणहननदण्देकारागारे अस्ति। सा हरियाणाराज्यस्य यमुनानगरस्य निवासिनी अस्ति तस्याः पितु: अभियांत्रिक: अस्ति च माता चिकित्सिकास्ति। त्रयभ्रातृभगिनिषु सा अनुजा अस्ति। पति: सहपाठी आसीत्। एकादशवर्षीयस्य पुत्र: मृत्यं प्राप्तवान् यतोहि चिकित्सकेन तिथिरहितमौषधं दत्तम्। कालान्तरे तस्या: पतिरपि मृत्युं प्राप्तवान् च तस्याः जीवनपरिवर्तितम्। अत्र आगमनान्तरं सर्वे कुटुम्बा: अपि पृथक्कीभूता: । विवाहकाले मातृपक्षस्य सदस्यै: उक्तम् यत् ‘अत्र.आगन्तुमिच्छति चेत् प्रसन्नतया आगच्छतु नोचेत् मागच्छ’। अधुना परिवारे तस्या: कनिष्ठिकां पुत्रीं प्रति उत्तराधिकारधनं विषये विवाद: अस्ति। तस्याः पुत्री न जानाति यत् तस्या: पितु: मृत्यं प्राप्तवान्। सा इति जानाति यत् तस्या: मातुः कारागरे अनाथान् बालकान् पाठयति, केवलं द्विधा वा त्रिधा सा विगतवर्षेषु कारागरे आगतवती। सम्प्रति तस्या: पुत्री अपि तां मेलितुम् नागच्छति। पुत्री: पुन: पुन: कारागरे आगमिष्यति च प्रश्ना: करिष्यति इति विचिंत्य सा सम्प्रति एकाकी अभूत्। आरत्या: कविताया: ‘तृणम् तृणम् तिहाड़’ महत्त्वपूर्णभागं जातम्। कालांतरे इदं पुस्तकं ‘लिम्काबुक’ अभिलेखे संग्रहितम्।

अनंतरं मम गीतं ‘तृणम्- तृणम् तिहाड़’ अपि संग्रहितम्। अस्य ध्वनिसंग्रहणम् गृहमंत्रिणा अनावरितं च चित्रसंग्रहणम् लोकसभाध्यक्षेन सुमितामहाजनेन अनावरितम्। परिबद्धाभिः पुरुषमहिलाभि: सह आटॾ्कनं अस्य गीतस्य सौंदर्यं च आरत्या: ऊर्जा दर्शनीयासीत्।

”बद्धं कपाटं न जाने कदा उद्घाटिष्यति,  नयनेषु जलम् न भविष्यति।

एकस्मिन् दिवसे मस्तके अबीरं, गण्डस्य प्रकृति: स्वस्था भविष्यति।

READ  Tinka Tinka Dasna : Reporting From Inside the Jail

आम्!  इदं तिहाड़म् सर्वस्य तिहाड़म् अस्ति रे।”

आरती अधुनापि कारागरे अस्ति। कविता: तस्या: जीवनस्य संजीवनी अस्ति। सा कारागरे सर्वान् लेखनार्थं प्रेरयति। ‘तृणम् तृणम् तिहाड़म्’ इति पुस्तके प्रकाशितं तस्या: छायाचित्रं च कविता कारागारस्य प्रत्येकस्य नूतनस्य बद्धस्य आशा अस्ति। सर्वोत्तमस्य जीवनस्य विश्वास: अस्ति।

उत्तरप्रदेशस्य कारागारस्य अर्चनादासः, वर्षारविदासः च फामिदा, पश्चिमबंगालस्य मालतीमंडलः, चण्डीगढस्य कारागारस्य रेखा च सुमनबंसलः इत्यादि: अनेका: महिला: कारागारं स्वभाविकरुपं स्वीकृतम्। ताभि: इत: एव नूतन जीवनं आरम्भितम् किंतु बाह्यसंसारेभ्य: च अयं संसार: महत् रुपेण पृथकः अस्ति। सम्प्रति शीर्षन्यायालयस्य त्रिसदस्यीया समिति: महिला: प्रति विशिष्टं प्रयत्नं दृष्टि: च स्वीकृतवान् अपि च न्यायमूर्ति: मदन. बी. लोकूरः अपि विशेषा दृष्टि: स्वीकृतवान् तथापि समाजन्यायालयो: मध्ये महत् अन्तरमस्ति। इति दृश्यं सर्वे जानन्ति। महिला: जानन्ति यत् कारागारात् बहिर्गमने जीवनयापनं सरलं न विद्यते ता: तासाम् नूतनं स्वरुपं धारणीयं भविष्यति।  तथापि ता: कारागरे स्ववर्तमानभविष्ययो: मध्ये संवादं स्थापयन्ति। अतीतविस्मरणं सामान्यं न वर्तते तथापि भविष्यदर्शनम्अपि च असंभवं नास्ति।  ता: आत्मानं स्वयमेव स्वदिवाकरो भूत्वा प्रेरयन्ति प्रकाशयन्ति च।

आम्! बहुधा कारागरं प्रदर्शनीस्थलं भवति। तत्र परिधानप्रदर्शनमायोज्यते उतवा कारागरं जानय, दर्शनम् करणीयम् इत्यादय: पर्यटनयुक्तय: अवहरति चित्तम् विना चिन्तनेन यत् बद्धा: प्रदर्शनार्थं न सन्ति। चलचित्रेषु अपि कारागारं प्रति संवेदना दृश्यते परंच तत् तु धनोपार्जनस्य साधनरुपेण प्रयोग: भवति।  तदा एता: बद्धा: महिला: स्वप्रति परिवंचना अनुभवन्ति। केन संवाद: भवेत् न कश्चित् सहृदयश्रोतारः अस्ति न च अभिव्यक्तारस्य स्वतन्त्रता अस्ति अत्र। चेद् कारागारस्य नियम- प्रनियमस्य निर्माणकाले कासांश्चित बद्धायानाम् मतम् अपि स्वीक्रियेत् उतवा ये ता: तान् प्रति चिन्तयन्ति तेषाम्/ तासाम् अपि मत् स्वीक्रियेत् तदा स्थितय: जीवनयोग्या: उत्तमा: भविष्यन्ति।

तथापि कारागारं सर्वदा भविष्यति। मताधिकाररहित: अन्ते उत् वा अधो स्थित: कारागारस्य अस्तित्वम् अस्ति च तेषु: बद्धा: प्राणधारका: सन्ति। अहं देशस्य कारागराणि नियमितरुपेण गच्छामि। तत्र एक: प्रकाशरहित: भाग: अस्ति। तत्र प्रकाशकरणीयम्। अत्र बद्धानाम् जीवनम् अनेकेषु भागेषु विभक्तमस्ति तथापि केचित् काश्चित् सन्ति ये नूतनं जीवनमिच्छन्ति। एतेषां तथ्यं सत्यं श्रोतुम् न हि कश्चित् साहसिक: अस्ति। सम्भवतः कालोऽपि न।

READ  Tinka Tinka Dasna : Book Review : Sanskrit

डाँ वर्तिका नन्दा

(डाँ वर्तिका नन्दा कारावासस्य सुधारिका अस्ति। सा देशस्य 1382  संख्यकेषु  कारावासेषु अमानवीयस्य स्थितेः संबंधे शीर्षन्यायालये संबंद्धितस्य याचिकायाः प्रक्रियायाः भागिनी अस्ति। नैयायिकाः एम. बी. लोकुरः च दीपकगुप्तायाः समित्या कारावासेषु महिलानाम् बालक-बालिकानाम् स्थितेः आकलनार्थं अस्मिनैव प्रक्रियायां तस्याः

सहभागिता निश्चिता कृतम्। कारावासस्योपरि एका अद्वितीया श्रृंखला- ‘ तिनका तिनका’ इत्यस्य संस्थापिका। विशिष्टानां प्रयोगानां कृते भारतस्य तत्कालीन राष्ट्रपतिना स्त्री-शक्तिः  पुरस्कारेन सम्मानिता। द्विवारं ‘लिम्का- रिकार्ड्स्- बुक’ इति अभिलेखे स्थानम् अर्जितम्। ‘ तिनका तिनका तिहाड’ ‘ तिनका तिनका डासना’ इति कारावासेषूपरि तस्याः बहुचर्चिताः पुस्तकाः। वर्तमाने दिल्लीविश्वविद्यालयस्य लेडीश्रीराममहाविद्यालयस्य पत्रकारितायाः विभागस्य अध्यक्षा)

डां. कामिनीकुमार

(डां. कामिनीकुमारी वर्तमाने सहायकाचार्यरूपेण (संस्कृतविभागे) लेडी-श्रीराम-महाविद्यालये दिल्लीविश्वविद्यालयस्य कार्यरता अस्ति। सा लेडी-श्रीराम-महाविद्यालयात् एव स्नातकस्य च जवाहरलाल-नेहरु-विश्वविद्यालयात् स्नातकोत्तरस्य च विद्यावारिधेः उपाधिं प्राप्तवती। तस्याः विशेषज्ञता चाध्यापनस्य क्षेत्रं संस्कृतभाषा भारतीयदर्शनं संगणकीयभाषाविज्ञानं चास्ति।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Editor's choice